संस्कृतभाषा
संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्टाध्यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति।
संस्कृतभाषायाः सुरभारती, देववाणी, देवीवाक्, गीर्वाणवाणी, देवभाषा,अमरभारती इत्यादीनिबहूनि,नामानि प्रसिद्धानि सन्ति ।
संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्याः भाषायाः वैशिष्ट्यं नाम दंडचिन्हम्। न वर्तते अत्र अन्यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्नम् उद्गारं च सूचयति। अत: एकस्यैव वाक्यस्य भिन्नान् अर्थान् प्राप्नुमः वयम्। उदाहरणार्थं वाक्यांशः एकः दीयते। अभ्युत्थानं च धर्मस्य नैव दृष्टं कदाचन इति एतस्य वाक्यस्य द्वौ अर्थौ स्त:॥
संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति।
Sanskrit | |
---|---|
saṃskṛtam | |
The word saṃskṛtam written in Devanagari.
| |
Pronunciation | [səmskr̩t̪əm] |
Region | Greater India |
Era | ca. 2nd millennium BCE–600 BCE (Vedic Sanskrit), after which it gave rise to the Middle Indo-Aryan languages. Continues as a liturgical language (Classical Sanskrit). |
Revival | Attempts at revitalization. 14,346 self-reported speakers (2001 census)[1] |
Indo-European
| |
Early forms
| Vedic Sanskrit
|
No native script. Written in various Brahmic scripts.[2] | |
Official status | |
Official language in
| India |
Language codes | |
ISO 639-1 | sa |
ISO 639-2 | san |
ISO 639-3 | san |
Glottolog | sans1269 [3] |
संस्कृतवाङ्मयम्
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥
ऋग्वेदः
ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥
स्वच्छभारताभियानम्
स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् ।
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।
Comments
Post a Comment